📚 श्रीमद्भागवतम् (यदुपत्याटीका) - स्कन्धः २
Page 1
Download 📥
________________ 1 श्रीमत् भगवद्बादरायणप्रणीतम् श्रीमद्भागवतम् तृतीयः स्कन्धः अथ प्रथमोऽध्यायः । श्रीशुक उवाच- एवमेतत् पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥ प्रकाशिका - सुखज्ञानादिसद्रत्नः शुकयोगीन्दुसम्भवः । व्यासदेवामृतांबोधिर्भूयाद्भूत्यै ममानिशम् ॥ आसीद्यदुदरात्पद्ममित्यादिना पाद्मकल्पकाललक्षणादिकं यत्परीक्षिता पृष्टं तस्य सर्वस्योत्तरं विदुरमैत्रेयसंवादमुखेनैव वक्ष्यामीत्याशयेनाह । एवमेतदिति । यथाऽहमेतत्पाद्मकल्पकाल- लक्षणादिकमुद्दिश्य त्वया पृष्ट एवम् । तथा ऋद्धिमदैश्वर्यवत्स्वगृहं त्यक्त्वा । अनेन तस्य वैराग्यं सूचितम् । क्षत्रा विदुरेण पृष्टो मैत्रेयस्तस्मै यदुत्तरमुक्तवांस्तत्तुभ्यम् । अभिधास्य इति शेषः ।। १ ।। यदा त्वयं मन्त्रकृद् वो भगवानखिलेश्वरः । पौरवेन्द्रपुरं हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥ तात्पर्यम् - श्रीगुरुभ्यो नमः || ' युद्धकाले तु विदुरस्तीर्थयात्रां गतोऽपि सन् । प्राय आस्ते गजपुरे पाण्डवानां व्यपेक्षय' इति स्कान्दे ॥ २ ॥ प्रकाशिका - ननु विदुरः कस्मिन्समये वनं प्रविष्ट इत्यपेक्षायामाह || यदेति । व: पांडवानामर्थे मन्त्रकृद्राज्यदानोपयोगिविचारकर्ता । द्रुपदपुरोहितादिसाम्यव्यावृत्त्यर्थं तुशब्दः । पौरवेन्द्रपुरं हस्ति- नापुरम् । आत्मसात्कृतं स्वाधीनमुपप्लाव्यं प्रविवेश । तदा वनं प्रविष्टेनेति पूर्वेणान्वयः । नन्वेवं विदुरो युद्धकाले नागपुरे नासीदिति प्राप्तम् । तथात्वे प्रथमस्कन्धे तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजमिति युद्धकालसमाप्त्यनन्तरं धृतराष्ट्रसांत्वनकाले विदुरावस्थानस्योक्तत्वेन दशमे युधिष्ठिरस्य राज्याभिषेकानन्तरं कृष्णस्य द्वारावतीप्रयाणकालेऽपि विदुरावस्थानस्य वक्ष्यमाणत्वेन तद्विरोध A1